पूर्वम्: ५।२।१११
अनन्तरम्: ५।२।११३
 
सूत्रम्
दन्तशिखात् संज्ञायाम्॥ ५।२।११२
काशिका-वृत्तिः
दन्तशिखात् संज्ञायाम् ५।२।११३

दन्तशिखाशब्दाभ्यां बलच् प्रत्ययो भवति मत्वर्थे संज्ञायां विषये। दन्तावलः सैन्यः। दन्तावलो गजः। शिखावलं नगरम्। शिखावला स्थूणा।
न्यासः
दन्तशिखात्संज्ञायाम्?। , ५।२।११२

दन्तशब्दादिनिठनोः प्राप्तयोर्वलज्विधीयते। शिखाशब्दादिनिप्रत्ययो वक्ष्यते "व्रीह्रादिभ्यश्च" ५।२।११५ इत्यत्र "शिखादिभ्य इनिर्वाच्यः" (म। भा। २।३९८) इति। अदेशार्थं शिखाग्रहणम्(), शिखावला स्थूणेत्यत्र यथा स्यात्()। देशे तु "शिखाया वलच्()" ४।२।८८ इत्यनेनैव चातुरर्थिक एव सिद्धः। यद्येवम्(), इदमेव वक्तव्यम्(), किं तेन? नैतदस्ति; तदपि हि वक्तव्यमेव--निर्वृत्तादिष्वर्थेषु यथा स्यात्()। अत्रापि संज्ञाग्रहणं तस्यै वार्थस्यानुवादार्थम्()। इतिकरणानुवृर्त्त्यवाभिधेयनियमसिद्धेः॥
बाल-मनोरमा
दन्तशिखात्संज्ञायाम् १८९४, ५।२।११२

दन्तशिखात्संज्ञायाम्। समाहारद्वन्द्वात्पञ्चमी। दन्तशब्दाच्छिखाशब्दाच्च मत्वर्थे वलच्स्यात्संज्ञायामित्यर्थः।